Sanskrit · Devanagari
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
Sanskrit · IAST
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ
English witness
Kashinath Trimbak Telang, 1882Forsaking all duties, come to me as (your) sole refuge. I will release you from all sins. Be not grieved.
This verse-level alignment is machine-assisted and awaits two independent human checks. Confidence signal: 50%.
Compare readings
29 translations and commentaries are aligned to this verse. Choose up to three; the root verse and Telang witness stay above them.
Śaṅkarācārya
।।18.66।। -- सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः तान् -- धर्मशब्देन अत्र अधर्मोऽपि गृह्यते? नैष्कर्म्यस्य विवक्षितत्वात्? नाविरतो दुश्चरितात् (क0 उ0 1।2।24) त्यज धर्ममधर्मं च (महा0 शान्ति0 329।40) इत्यादिश्रुतिस्मृतिभ्यः -- सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत्। माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् अहमेव इत्येवं शरणं व्रज? न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः। अहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन। उक्तं च नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता (गीता 10।11) इति। अतः मा शुचः शोकं मा कार्षीः इत्यर्थः।।अस्मिन्गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं ज्ञानम्? कर्म वा? आहोस्वित् उभयम् इति। कुतः संशयः यज्ज्ञात्वामृतमश्नुते (गीता 13।12) ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् (गीता 18।55) इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रेयसप्राप्तिं दर्शयन्ति। कर्मण्येवाधिकारस्ते (गीता 2।47) कुरु कर्मैव (गीता 4।15) इत्येवमादीनि,कर्मणामवश्यकर्तव्यतां दर्शयन्ति। एवं ज्ञानकर्मणोः कर्तव्यत्वोपदेशात् समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात् इति भवेत् संशयः कस्यचित्। किं पुनरत्र मीमांसाफलम् ननु एतदेव -- एषामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम् अतः विस्तीर्णतरं मीमांस्यम् एतत्।।आत्मज्ञानस्य तु केवल्य निःश्रेयसहेतुत्वम्? भेदप्रत्ययंनिवर्तकत्वेन कैवल्यफलावसानत्वात्। क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता -- मम कर्म? अहं कर्तामुष्मै फलायेदं कर्म करिष्यामि इति इयम् अविद्या अनादिकालप्रवृत्ता। अस्या अविद्यायाः निवर्तकम्? अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः न मत्तोऽन्योऽस्ति कश्चित् इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम्? कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात्। तुशब्दः पक्षव्यावृत्त्यर्थः -- न केवलेभ्यः कर्मभ्यः? न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति। अकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः। न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते। केवलं ज्ञानमपि अनर्थकं तर्हि न? अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात्। अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम्। रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत्। विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् तथा ज्ञानम्। दृष्टार्थानां च च्छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा? तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते। भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत्? न कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः। कैवल्यफले हि ज्ञाने प्राप्ते? सर्वतःसंप्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत्? फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्वानुपपत्तिः। न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते? तद्विषयं वा अर्थित्वम्। तस्मात् न कर्मणोऽस्ति निःश्रेयससाधनत्वम्। न च ज्ञानकर्मणोः समुच्चितयोः। नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा? अविद्यानिवर्तकत्वेन विरोधात्। न हि तमः तमसः निवर्तकम्। अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति। न नित्याकरणे प्रत्यवायप्राप्तेः? कैवल्यस्य च नित्यत्वात्। यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत्? तत् असत् यतः नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात्। ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव। नैष दोषः नित्यत्वात् मोक्षस्य। नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः? प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः? काम्यानां च वर्जनात् इष्टशरीरानुपपत्तिः? वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः रागादीनां च अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति। अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत्? न नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः। प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्म। आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति। न तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे0 उ0 3।8) इति विद्याया अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः? चर्मवदाकाशवेष्टनासंभववत् अविदुषः मोक्षासंभवश्रुतेः? ज्ञानात्कैवल्यमाप्नोति इति च पुराणस्मृतेः अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च। यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां संभवः? तथा पुण्यानाम् अनारब्धफलानां स्यात्संभवः। तेषां च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः। धर्माधर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः। नित्यानां च कर्मणां पुण्यफलत्वश्रुतेः? वर्णा आश्रमाश्च स्वकर्मनिष्ठाः (आ0 स्मृ0 2।2।2।3) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः।।ये तु आहुः -- नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव? न तु तेषां स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति? अश्रुतत्वात्? जीवनादिनिमित्ते च विधानात् इति। न? अप्रवृत्तानां कर्मणां फलदानासंभवात् दुःखफलविशेषानुपपत्तिश्च स्यात्। यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति? तदसत्। न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः। अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरककर्मफलोपभोगानुपपत्तिः न स्यात्। तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेश्च -- अनेकेषु हि दुरितेषु संभवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते कल्पयितुम्? नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषाणवहनादिदुःखमिति। अप्रकृतं च इदम् उच्यते -- नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलम् इति। कथम् अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यत इति प्रकृतम्। तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखम् आह भवान्? न अप्रसूतफलस्येति। अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान्? ततः नित्यकर्मानुष्ठानायासदुःखमेव फलम् इति विशेषणम् अयुक्तम्। नित्यकर्मविध्यानर्थक्यप्रसङ्गश्च? उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः। किं च? श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम्? नित्यकर्मानुष्ठानायासादेव तत् दृश्यते व्यायामादिवत् तत् अन्यस्य इति कल्पनानुपपत्तिः। जीवनादिनिमित्ते च विधानात्? नित्यानां कर्मणां प्रायश्चित्तवत्? पूर्वकृतदुरितफलत्वानुपपत्तिः। यस्मिन् पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम्। अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलम्? जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत? नित्यप्रायश्चित्तयोः नैमित्तिकत्वाविशेषात्। किं च अन्यत -- नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात् नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलम्? न तु काम्यानुष्ठानायासदुःखम् इति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत। तथा च सति नित्यानां फलाश्रवणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना? एवं विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम्। विरोधाच्च विरुद्धं च इदम् उच्यते -- नित्यकर्मणि अनुष्ठीयमाने अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति? नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते। किं च? काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफलम् उपक्षीणं स्यात्? तत्तन्त्रत्वात्। अथ काम्याग्निहोत्रादिफलम् अन्यदेव स्वर्गादि? तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत। न च तदस्ति? दृष्टविरोधात् न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिन्नं दृश्यते। किं च अन्यत् -- अविहितमप्रतिषिद्धं च कर्म तत्कालफलम्? न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत्। तदा स्वर्गादिष्वपि अदृष्टफलाशासने उद्यमो न स्यात् -- अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षयः नित्यानाम् स्वर्गादिमहाफलत्वं काम्यानाम्? अङ्गेतिकर्तव्यताद्याधिक्ये तु असति? फलकामित्वमात्रेणेति न शक्यं कव्यापितुं। तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते। अतश्च अविद्यापूर्वकस्य कर्मणः विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः? न नित्यकर्मानुष्ठानम्। अविद्याकामबीजं हि सर्वमेव कर्म। तथा च उपपादितमविद्वद्विषयं कर्म? विद्वद्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा -- उभौ तौ न विजानीतः (गीता 2।19) वेदाविनाशिनं नित्यम् (गीता 2।21) ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् (गीता 3।3) अज्ञानां कर्मसङ्गिनाम् (गीता 3।26) तत्त्ववित्तु महाबाहो৷৷৷৷ गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते (गीता 3।28) सर्वकर्माणि मनसा संन्यस्यास्ते (गीता 5।13) नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ? अर्थात् अज्ञः करोमि इति आरुरुक्षोः कर्म कारणम्? आरूढस्य योगस्थस्य शम एव कारणम् उदाराः त्रयोऽपि अज्ञाः? ज्ञानी त्वात्मैव मे मतम् (गीता 7।18) अज्ञाः कर्मिणः गतागतं कामकामाः लभन्ते अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते ददामि बुद्धियोगं तं येन मामुपयान्ति ते (गीता 10।10)? अर्थात् न कर्मिणः अज्ञाः उपयान्ति। भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिणः अज्ञाः? ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः अनिर्देश्याक्षरोपासकास्तु अद्वेष्टा सर्वभूतानाम् (गीता 12।13) इति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च। अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसंन्यासिनां आत्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम्अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति भवत्येव अन्येषामज्ञानां कर्मिणामसंन्यासिनाम् इत्येषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः।।अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत्? न ब्रह्महत्यादिवत्। यद्यपि शास्त्रावगतं नित्यं कर्म? तथापि अविद्यावत एव भवति। यथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति? अन्यथा प्रवृत्त्यनुपपत्तेः? तथा नित्यनैमित्तिककाम्यान्यपीति। देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत्? न चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य अहं करोमि इति प्रवृत्तिदर्शनात्। देहादिसंघाते अहंप्रत्ययः गौणः? न मिथ्या इति चेत्? न तत्कार्येष्वपि गौणत्वोपपत्तेः। आत्मीये देहादिसंघाते अहंप्रत्ययः गौणः यथा आत्मीये पुत्रे आत्मा वै पुत्रनामासि (तै0 सं0 2।11) इति? लोके च मम प्राण एव अयं गौः इति? तद्वत्। नैवायं मिथ्याप्रत्ययः। मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः। न गौणप्रत्ययस्य मुख्यकार्यार्थता? अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देन। यथा सिंहो देवदत्तः अग्निर्माणवकः इति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव? न तु सिंहकार्यम् अग्निकार्यं वा गौणशब्दप्रत्ययनिमित्तं किञ्चित्साध्यते मिथ्याप्रत्ययकार्यं तु अनर्थमनुभवति इति। गौणप्रत्ययविषयं जानाति नैष सिंहः देवदत्तः? तथा नायमग्निर्माणवकः इति। तथा गौणेन देहादिसंघातेन आत्मना कृतं कर्म न मुख्येन अहंप्रत्ययविषयेण आत्मना कृतं स्यात्। न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात्। न च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते? स्तुत्यर्थत्वेन उपक्षीणत्वात्। स्तूयमानौ च जानीतः न अहं सिंहः न अहम् अग्निः इति न हि सिंहस्य कर्म मम अग्नेश्च इति। तथा न संघातस्य कर्म मम मुख्यस्य आत्मनः इति प्रत्ययः युक्ततरः स्यात् न पुनः अहं कर्ता मम कर्म इति। यच्च आहुः आत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करोति इति? न तेषां मिथ्याप्रत्ययपूर्वकत्वात्। मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतीच्छाप्रयत्नादयः। यथा अस्मिन् जन्मनि देहादिसंघाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च? तथा अतीते अतीततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतोऽनागतश्च अनुमेयः। ततश्च सर्वकर्मसंन्याससहितज्ञाननिष्ठायाम् आत्यन्तिकः संसारोपरम इति सिद्धम्। अविद्यात्मकत्वाच्च देहाभिमानस्य? तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः। देहादिसंघाते आत्माभिमानः अविद्यात्मकः। न हि लोके गवादिभ्योऽन्योऽहम्? मत्तश्चान्ये गवादयः इति जानन् तान् अहम् इति मन्यते कश्चित्। अजानंस्तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसंघाते कुर्यात् अहम् इति प्रत्ययम्? न विवेकतः जानन्। यस्तु आत्मा वै पुत्र नामासि (तै. सं. 2।11) इति पुत्रे अहंप्रत्ययः? स तु जन्यजनकसंबन्धनिमित्तः गौणः। गौणेन च आत्मना भोजनादिवत् परमार्थकार्यं न शक्यते कर्तुम्? गौणसिंहाग्निभ्यां मुख्यसिंहाग्निकार्यवत्।।अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रियात्मभिः क्रियत एव इति चेत्? न अविद्याकृतात्मत्वात्तेषाम्। न च गौणाः आत्मानः देहन्द्रियादयः किं तर्हि मिथ्या प्रत्ययेनैव अनात्मानः सन्तः आत्मत्वमापाद्यन्ते? तद्भावे भावात्? तदभावे च अभावात्। अविवेकिनां हि अज्ञानकाले बालानां दृश्यते दीर्घोऽहम् गौरोऽहम् इति देहादिसंघाते अहंप्रत्ययः। न तु विवेकिनाम् अन्योऽहं देहादिसंघातात् इति जानतां तत्काले देहादिसंघाते अहंप्रत्ययः भवति। तस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृत एव? न गौणः। पृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात्? न अगृह्यमाणविशेषसामान्ययोः। यत्तु उक्तम् श्रुतिप्रामाण्यात् इति? तत् न तत्प्रामाण्यस्य अदृष्टविषयत्वात्। प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसंबन्धे श्रुतेः प्रामाण्यम्? न प्रत्यक्षादिविषये? अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य। तस्मात् न दृष्टमिथ्याज्ञाननिमित्तस्य अहंप्रत्ययस्य देहादिसंघाते गौणत्वं कल्पयितुं शक्यम्। न हि श्रुतिशतमपि शीतोऽग्निरप्रकाशो वा इति ब्रुवत् प्रामाण्यमुपैति। यदि ब्रूयात् शीतोऽग्निरप्रकाशो वा इति? तथापि अर्थान्तरं श्रुतेः विवक्षितं,कल्प्यम्? प्रामाण्यान्यथानुपपत्तेः? न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा। कर्मणः मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत्? न ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः।।कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग इति चेत्? न बाधकप्रत्ययानुपपत्तेः। यथा ब्रह्मविद्याविधिश्रुत्या आत्मनि अवगते देहादिसंघाते अहंप्रत्ययः बाध्यते? तथा आत्मन्येव आत्मावगतिः न कदाचित् केनचित् कथंचिदपि बाधितुं शक्या? फलाव्यतिरेकादवगतेः? यथा अग्निः उष्णः प्रकाशश्च इति। न च एवं कर्मविधिश्रुतेरप्रामाण्यम्? पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात्। मिथ्यात्वेऽपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात्? यथा अर्थवादानां विधिशेषाणाम् लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये चूडावर्धनादिवचनम्। प्रकारान्तरस्थानां च साक्षादेव वा प्रामाण्यं सिद्धम्? प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत्। यत्तु मन्यसे -- स्वयमव्याप्रियमाणोऽपि आत्मा संनिधिमात्रेण करोति? तदेव मुख्यं कर्तृत्वमात्मनः यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोऽपि संनिधानादेव जितः पराजितश्चेति? तथा सेनापतिः वाचैव करोति क्रियाफलसंबन्धश्च राज्ञः सेनापतेश्च दृष्टः। यथा च ऋत्विक्कर्म यजमानस्य? तथा देहादीनां कर्म आत्मकृतं स्यात्? फलस्य आत्मगामित्वात्। यथा च भ्रामकस्य लोहभ्रामयितृत्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम्? तथा च आत्मनः इति। तत् असत् अकुर्वतः कारकत्वप्रसङ्गात्। कारकमनेकप्रकारमिति चेत्? न राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात्। राजा तावत् स्वव्यापारेणापि युध्यते योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वम्? तथा जयपराजयफलोपभोगे। यजमानस्यापि प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम्। तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः? सः गौणः इति अवगम्यते। यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनाम्? तदा संनिधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत यथा भ्रामकस्य लोहभ्रामणेन? न तथा राजयजमानादीनां स्वव्यापार नोपलभ्यते। तस्मात् संनिधिमात्रेण कर्तृत्वं गौणमेव। तथा च सति तत्फलसंबन्धोऽपि गौण एव स्यात्। न गौणेन मुख्यं कार्यं निर्वर्त्यते। तस्मात् असदेव एतत् गीयते देहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात् इति। भ्रान्तिनिमित्तं तु सर्वम् उपपद्यते? यथा स्वप्ने मायायां च एवम्। न च देहाद्यात्मप्रत्ययभ्रान्तिसंतानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते। तस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयं संसारभ्रमः? न तु परमार्थः इति सम्यग्दर्शनात् अत्यन्त एवोपरम इति सिद्धम्।।सर्वं गीताशास्त्रार्थमुपसंहृत्य अस्मिन्नध्याये? विशेषतश्च अन्ते? इह शास्त्रार्थदार्ढ्याय संक्षेपतः उपसंहारं कृत्वा? अथ इदानीं शास्त्रसंप्रदायविधिमाह --,
b85d3c78cf88…Rāmānuja
18.66 'Relinishing all Dharmas means the complete relinishment of the sense of agency, possessiveness, fruits etc., in the practising of Karma, Jnana and Bhakti Yogas in the way instructed, and the realising of Me as the agent, object of worship, the means and the end. It means that relinishment is not of all devotional duties but only of the sense of agency and the fruits. This is the Sastraic relinishment of all Dharmas. It is firmly established in the beginning of this chapter commencing from, 'Listen regarding My decision, O Arjuna, about abandonment; for abandonment is declared to be of three kinds' (18.4), and 'Renouncing attachments and also the fruit, such abandonment is regarded as Sattvika ৷৷. for it is impossible for one who bears the body to abandon acts entirely. But he who gives up the fruits of works, is called the abandoner' (18.9-11). If you practise such abandonment of the sense of agency and fruits, I will release you from all 'sins' - i.e., I will release you from all evil incompatible with the attainment of Myself, consisting of innumerable acts of the nature of doing what ought not to be done and not doing what ought to be done. These piled up from beginningless times from the obstruction in the way. Grieve not, you should not despair; for I shall release you from all these obstructions. Another (alternative) explanation is this: Bhakti Yoga is possible only for those people to whom the Lord is exceedingly dear and who are free from all evils. Those evils are so huge in their case that the expiatory rites which could wash them off, could not be performed in the limited time of one's life span. Ajuna therefore thought that he was unfit for commencing Bhakti Yoga. To remove the grief of Arjuna the Lord said: 'Completely relinishing all Dharmas, seek Me alone for refuge.' Expiatory rites can be taken here as what is meant by Dharma, Completely forsake these rites (Dharmas) appropriate for the removal of numerous and varied sins piled up from beginningless time and obstructing the starting of Bhakti Yoga. The expiatory rites consist of practices like Krcchra, Candrayana, Kusmanda, Vaisvanara, Vratapati, Pavitresti, Trvrit, Agnistoma etc., which are of manifold varieties, and which are difficult to perform on account of the brevity of life. So in order to succeed in commencing Bhakti Yoga, seek Me alone for refuge. I am supremely compassionate, the refuge of all without considering the differences of character among them, and am an ocean of tenderness for those dependent on Me. I will release you from all evil, the nature of which has been explained as incompatible with the commencement of Bhakti Yoga. Grieve not. [Both these interpretations of this famous verse are said to teach only Bhakti Yoga and not Prapatti. But the estion will rise in one's mind - why should it not be so taken?]
feed30b93a0f…Swami Sivananda
18.66 सर्वधर्मान् all duties? परित्यज्य having abandoned? माम् to Me? एकम् alone? शरणम् refuge? व्रज take? अहम् I? त्वा thee? सर्वपापेभ्यः from all sins? मोक्षयिष्यामि will liberate? मा dont? शुचः grieve.Commentary This is the answer given by the Lord to the estion put by Arjuna in chapter II? verse 7 I ask Thee which may be the better tell me that decidedly. I am Thy disciple? suppliant to Thee teach me.All Dharmas Righteous deeds? including Adharma all actions? righteous or unrighteous? as absolute freedom from all actions is intended to be taught here.Taking refuge in Me alone implies the knowledge of unity without any thought of duality knowing that there is nothing else except Me? the Self of all? dwelling the same in all. If thou art established in this faith? I shall liberate thee from all sins? from all bonds of Dharma and Adharma by manifesting Myself as thy own Self.To behold forms is the Dharma of the eye. The support or substratum of all forms is Brahman. When you look at an object behold Brahman Which is the one essence and abandon the form as it is illusory and unreal. Have the same attitude towards the other objects which pertain to the other senses.Give up the JivaDharma (the notions I am the doer o actions? I enjoy. I am a Brahmana. I am a Brahmachari. I am endowed with a little knowledge and power? etc. and get yourself established in BrahmaBhavana (the understanding or knowledge I am Brahman). This is what is meant by taking refuge in Lord Krishna? according to the Vedantins.Work ceaselessly for the Lord but surrender the fruits of all actions to the Lord. Take the Lord as your sole refuge. Live for Him. Work for Him. Serve Him in all forms. Think of Him only. Meditate on Him alone. See Him in all forms. Think of Him only. Meditate on Him alone. See Him everywhere. Worship Him in your heart. Consecrate your life? all actions? feelings and thoughts to the Lord. You will rest in Him. You will attain union with Him. You will attain immortal supreme peace and eternal bliss. This is the view of another school of thought.Sri Sankara very strongly refutes the idea that knowledge in conjunction with Karma (action) produces or leads to liberation. He says that Karma and knowledge may not go together in the same man? that karma helps the man to get purification of the heart? and that right knowledge of the Self alone will give him absolute freedom from Samsara. He says that work and knowledge are like darkness and light? that action is possible only in this universe of illusory phenomena which is the projection of ignorance and knowledge dispels this ignorance. (Cf.III.30IX.22)
0696485a9162…These supplied texts come from the pinned VedicScriptures dataset under GPL-3.0 and await independent alignment review.