14.1Krishnaश्रीभगवानुवाच। परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥Commentary · Sanskrit।।14.1।।उत्तरेषां पञ्चानामध्यायानां प्रतिपाद्यमाह -- साधनमिति।योगे त्विमां शृणु [2।39] इति प्रतिज्ञायाषष्टपरिसमाप्तेः कामवर्जनादीति कर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम्। तत्रेतिकर्तव्यतांशमुत्तरैरध्यायैः प्रपञ्चयतीत्यर्थः।मम योनिर्महद्ब्रह्म [14।3]न तद्भासयते सूर्यः [15।6] इत्यादिनेश्वरमाहात्म्यस्यापि वचनात्कथमेतत् इत्यत उक्तम् -- प्राधान्येनेति। प्राचुर्यापेक्षया संग्राहकमेतदित्यर्थः। अवान्तरप्रतिपाद्यभेदादध्यायभेदः। तत्रयावत्सञ्जायते किञ्चित् [13।27] इत्युक्तविवरणपूर्वकंकारणं गुणसङ्गोऽस्य [13।22] इत्युक्तं गुणसम्बन्धं प्रपञ्च्य तदत्ययसाधनमनेनाध्यायेनोच्यते।Compare this verse →
14.2Krishnaइदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥Commentary · Sanskrit।।14.2।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.3Krishnaमम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥Commentary · Sanskrit।।14.3।।अत्र महत् ब्रह्मेति जडाऽविद्योच्यत इति प्रतीतिनिरासार्थमाह -- महदिति। प्रकृतिर्महालक्ष्मीः। ननु सत्त्वं रजस्तम इति जडा प्रकृतिर्वक्ष्यते? तत्सन्निधानादत्रापि सैव युक्तेति चेत्? न तत्रापि चेतनप्रकृत्यभिधानात्? कथमस्याः सत्त्वादिभेदभिन्नत्वं इत्यत आह -- सा चेति। जडप्रकृतेरभिमानिनी तत्कार्यसत्त्वादिगुणाभिमानिन्येतद्रूपत्रयवतीत्यर्थः। ननु भगवती माहेश्वरी ब्राह्मी कौमारी माहेन्द्री श्रीर्भूर्दुर्गेति सप्तधा भिन्नाऽऽगमेषूच्यते? तत्कथं त्रिधा भिन्नोच्यते इत्यत आह -- उमेति। आद्याश्चतस्रो भगवत्या अन्याः। कुतः जीवाः। कथं तद्रूपत्वोक्तिः तदंशयुतास्तत्सन्निधानोपेताः। कुत एतत् इत्यत आह -- तथा चेति।मम योनिः इत्येतत्परे व्याचक्षते मम स्वरूपभूता योनिः कारणं विश्वस्य प्रतीत एवान्वये मम मातेत्यापत्तेरिति तन्निरासार्थमाह -- ममेति भार्येत्यर्थः। ममेत्यनुवादेनान्यथा प्रतीतावन्वयबाधः स्यादिति सूचयति। प्रतीतान्वयाङ्गीकारेमाता इत्यपि प्रतीयेत? तत्र कथं भार्येति निश्चयः इत्यत आह -- न त्विति। इति प्रतीतिः प्रसज्ज्यत इति शेषः। कुतो न इत्यत आह -- वाक्येति।तस्मिन् गर्भं दधाम्यहम् इति वाक्यशेषाद्भार्यार्थतानिश्चयात्। श्रुतिबलाच्चेत्याह -- तथा हीति। प्रकाशयन्ती प्रवर्तते। अनयैव श्रुत्याऽन्यदपि लब्धमिति प्रसङ्गादाह -- अत इति। मृषाऽयथार्थं प्रदर्शनं यस्य तत्तथा। इतश्चैवमेवेत्याह -- तथेति। तत्र ह्येवमुक्तम्दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः। रामायादर्शयत्सीतां पावकोऽसौ सुरप्रियः [ ] इत्यादि। ननु महालक्ष्मीः श्रीर्भूर्दुर्गेति भिन्नेत्युक्तम्। भुवश्चगौर्भूत्वाऽश्रुमुखी खिन्ना [भाग.10।1।18] इति दुःखं प्रतीयते? तत्कथं तत् इत्यत आह -- न चेति। इयं भूताभिमानिनी प्रसिद्धा भूः भगवत्या रूपं न भवति? किन्त्वियमन्यैव। कुतः इत्यत आह -- तथा चेति। महालक्ष्मीरूपं भूरन्या? इयं प्रसिद्धा? तस्य तस्याः। छाया प्रतिमा। ननु रावणहरणादिकं भवतु मायासीतायाः वाल्मीकिदास्यं तावन्मत्स्यपुराणे साक्षात्सीताया एवोक्तम्दास्ये च दुःखमवर्जनीयं इत्याशङ्कां प्रमाणपूर्वकमपाकरोति -- अवापेति। श्रुतिरस्ति।यतोऽतः इति शेषः। महद्ब्रह्म प्रकृतिरित्युक्तम्? तत्र प्रमाणं वक्तुं व्यवहितत्वात्पुनः प्रतिजानीते -- महदिति।महत्? ब्रह्म इति भिन्ने पदे ततः परमितिशब्दोऽध्याहार्यः। कुतः इत्यत आह -- महतीति। तत्रैव मत्स्यपुराणे। अर्थक्रमेणमम योनिर्महद्ब्रह्म इत्यत्र व्युत्क्रमेण व्याख्यानम्। मत्स्यपुराणोदाहरणप्रसङ्गादत्रोपपादनमिति।Compare this verse →
14.4Krishnaसर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥Commentary · Sanskrit।।14.4।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.5Krishnaसत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥Commentary · Sanskrit।।14.5।।ननु प्रतिज्ञातं ज्ञानं श्लोकद्वयेनोक्तं? तत्किमुत्तरेण ग्रन्थेनाध्यायासङ्गतमुच्यते इत्यत आह -- बन्धेति। यो हि बद्धोऽस्मीति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वाऽनुतिष्ठति? अतो बन्धोच्छेदसाधनानुष्ठानाय तज्ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारमादौ तावद्दर्शयतीति नासङ्गतिरित्यर्थः।Compare this verse →
14.6Krishnaतत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥Commentary · Sanskrit।।14.6।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.7Krishnaरजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥Commentary · Sanskrit।।14.7।।अत्ररजस्तृष्णासङ्गसमुद्भवं इत्यस्यतृष्णासङ्गाभ्यां समुद्भवो यस्य इत्यपव्याख्यानमिति भावेन विग्रहप्रदर्शनपूर्वकमर्थमाह -- तृष्णेति। समुद्भवत्यस्मादिति समुद्भवं कारणम्। अन्यथाप्रकृतिसम्भवाः (14।5) इत्युक्तविरोधात् समुद्भवशब्देनाविर्भावो विवक्षित इति चेत् तथापि गुणकार्यकथनप्रकरणविरोधात्।Compare this verse →
14.8Krishnaतमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥Commentary · Sanskrit।।14.8।।तमस्त्वज्ञानजं इत्यस्यअज्ञानाज्जातं (शं.) इत्यपव्याख्यां प्रत्याख्यातुमाह -- अज्ञानमिति। एतच्चअन्येष्वपि दृश्यते [अष्टा.3।2।101] इति दृशिग्रहणसामर्थ्याल्लभ्यते। कुतः प्रतीत एवार्थो न इत्यत आह -- प्रमादेति। वाक्यशेषेऽज्ञानस्य तमःकार्यत्ववचनादित्यर्थः।Compare this verse →
14.9Krishnaसत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥Commentary · Sanskrit।।14.9।।सत्त्वमिति।Compare this verse →
14.10Krishnaरजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥Commentary · Sanskrit।।14.10।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.11Krishnaसर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥Commentary · Sanskrit।।14.11।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.12Krishnaलोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥Commentary · Sanskrit।।14.12।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.13Krishnaअप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥Commentary · Sanskrit।।14.13।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.14Krishnaयदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥Commentary · Sanskrit।।14.14।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.15Krishnaरजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥Commentary · Sanskrit।।14.15।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.16Krishnaकर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥Commentary · Sanskrit।।14.16।।दुःखशब्दः केवलदुःखवाचीत्यन्यथाप्रतीतिनिरासायाह रजस इति। दुःखशब्देनोच्यत इति शेषः। तत्कथं इत्यत उक्तम् अल्पेति। अल्पत्वात्सुखस्याविवक्षेति भावः। कुतः इत्यत आह -- तथा हीति। रजस इति पञ्चमी। मात्रयेति सुखविशेषणम्। स्तोकात्मकं सुखं दुःखं चेत्यर्थः। तान् राजसकर्मिणः। केवलदुःखार्थाङ्गीकारे बाधकं चाह -- अन्यथेति। अतिकष्टत्वात् ज्ञानादपि कष्टत्वात्। तत्फलकस्य रजसः। तथा चमध्ये तिष्ठन्ति राजसाः ৷৷. अधो गच्छिन्ति तामसाः। [14।18] इत्याद्ययुक्तं स्यादिति भावः।Compare this verse →
14.17Krishnaसत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥Commentary · Sanskrit।।14.17।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.18Krishnaऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥Commentary · Sanskrit।।14.18।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.19Krishnaनान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥Commentary · Sanskrit।।14.19 -- 14.20।।नान्यं गुणेभ्यः कर्तारं इति स्वतन्त्रकर्तृत्वं गुणानामेव? नान्यस्येत्युच्यत इत्यपव्याख्याननिरासार्थमाह -- परिणामीति। कुत एतत् इत्यत आह -- अन्यथेति गुणेभ्योऽन्यस्य कर्तृत्वाभावे। मोक्षधर्मे परमेश्वरस्य कर्तृत्वमुक्तं तद्विरोधश्चेति वाक्यशेषः।Compare this verse →
14.20Krishnaगुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥Commentary · Sanskrit।।14.19 -- 14.20।।नान्यं गुणेभ्यः कर्तारं इति स्वतन्त्रकर्तृत्वं गुणानामेव? नान्यस्येत्युच्यत इत्यपव्याख्याननिरासार्थमाह -- परिणामीति। कुत एतत् इत्यत आह -- अन्यथेति गुणेभ्योऽन्यस्य कर्तृत्वाभावे। मोक्षधर्मे परमेश्वरस्य कर्तृत्वमुक्तं तद्विरोधश्चेति वाक्यशेषः।Compare this verse →
14.21Arjunaअर्जुन उवाच। कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥Commentary · Sanskrit।।14.21।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.22Krishnaश्रीभगवानुवाच। प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥Commentary · Sanskrit।।14.22।।प्रकाशं च प्रवृत्तिं च इत्यनेन गुणातीतस्य सर्वथा सत्त्वादिगुणकार्येषु प्रकाशादिषु द्वेषाकाङ्क्षे न स्त इत्युच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- प्राय इति। इदमुक्तं भवति -- सत्त्वादयो गुणा द्विविधाः स्थूलाः सूक्ष्माश्च? तत्र स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहाः जायन्ते सूक्ष्मेभ्यस्तु परमेश्वरादिविषयाः। तत्राद्येषु गुणातीतस्य द्वेषाकाङ्क्षे प्रायो न स्तः। न तु सर्वथा प्रारब्धवशात्कदाचित्सम्भवात्। द्वितीयेषु तु आकाङ्क्षादिकं विद्यत एवेति कुत एतत् इत्यत आह -- तथा हीति। यद्यपिन द्वेष्टि इत्यादिकमुक्तम्? तथापि यदि सुतमः सूक्ष्मतमो दैववशात्तं प्रविष्टं स्यात्? तदाऽसौ तज्जह्यात् द्विष्यात्। गुणातीतानां च सूक्ष्मसत्त्वसद्भावे भारतवाक्यं च पठति -- नहीति। यदि देवा ऋषयश्च सूक्ष्मेण सत्त्वेन हीनाः स्युः? तदा सत्त्वस्था इति नोच्येरन्? किन्तु ततस्तदा वैकारिका मताः प्रसज्येरन्? ततः किं कथं वैकारिको गच्छेत् पुरुषोत्तमम् तेषां मोक्षो न स्यादिति यावत्। अस्ति च तेषां मोक्षोऽतः सूक्ष्मसत्त्ववन्त एव त इत्यर्थः। सात्त्विकः सूक्ष्मसत्त्ववान्।ससूक्ष्मसत्त्वसंयुक्तः संयुक्तस्त्रिभिरक्षरैः। पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकः।। इति सूक्ष्मसत्त्वप्रकरणात्। मोक्षार्थनिश्चितः,मोक्षलक्षणे पुरुषार्थे निश्चितः।Compare this verse →
14.23Krishnaउदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥Commentary · Sanskrit।।14.23।।Sri Jayatirtha did not comment on this sloka.Compare this verse →
14.24Krishnaसमदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥Commentary · Sanskrit।।14.24 -- 14.25।।समदुःखसुखः [14।24] इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- तुल्यत्वेति। तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः। प्रायः सर्वानित्याद्युक्तरीत्येति भावः।Compare this verse →
14.25Krishnaमानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥Commentary · Sanskrit।।14.24 -- 14.25।।समदुःखसुखः [14।24] इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- तुल्यत्वेति। तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः। प्रायः सर्वानित्याद्युक्तरीत्येति भावः।Compare this verse →
14.26Krishnaमां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥Commentary · Sanskrit।।14.26।।ब्रह्मभूयाय इत्यस्य परब्रह्मत्वायेति व्याख्यानं प्रमाणविरुद्धमिति भावेनान्यथा व्याचष्टे -- ब्रह्मवदिति। नात्र ब्रह्मशब्दं परं ब्रह्म? किन्तुमम योनिर्महद्ब्रह्म [14।3] इति प्रकृता प्रकृतिरेवब्रह्मणो हि प्रतिष्ठाऽहं [13।27] इत्युत्तरवाक्यात्। तद्भूयं च न तादात्म्यं? किन्तु तद्वद्भगवत्प्रियत्वमेव अन्यस्यान्यभावायोगादिति भावः। तत्किं यावत्प्रकृतेर्भगवत्प्रियत्वं तावद्गुणातीतस्येत्यतः सप्रमाणमाह -- न त्विति। तत्किं भूयशब्दः प्रियत्ववाची येनैवं व्याख्यायते इत्यत आह -- भूयायेति। भुवो भाव इति वचनाद्भावो भवनं भूयशब्दार्थः। ब्रह्मवद्भावो ब्रह्मभूयम्।वदः सुपि [अष्टा.3।1।106] इति सुबन्तमात्रस्योपपदस्यानुवृत्तेः। वत्यर्थस्य च वृत्तावन्तर्भावात्। मयूरव्यंसकादिवत्। वत्यर्थश्च प्रियत्वमिति तदुक्तमिति भावः।Compare this verse →
14.27Krishnaब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥Commentary · Sanskrit।।14.27।।ब्रह्मणो हि इत्येतत्परब्रह्मणो हि इति व्याचक्षते (शां.) तदसत्? प्रतिष्ठाऽहमिति वचनात्। उपचारोऽसाविति चेत्? न मुख्ये सम्भवति तदुपादानायोगादिति भावेनाह -- ब्रह्मण इति। मायेति प्रकृता महालक्ष्मीः।Compare this verse →
श्रीभगवानुवाच। परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥
।।14.1।।उत्तरेषां पञ्चानामध्यायानां प्रतिपाद्यमाह -- साधनमिति।योगे त्विमां शृणु [2।39] इति प्रतिज्ञायाषष्टपरिसमाप्तेः कामवर्जनादीति कर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम्। तत्रेतिकर्तव्यतांशमुत्तरैरध्यायैः प्रपञ्चयतीत्यर्थः।मम योनिर्महद्ब्रह्म [14।3]न तद्भासयते सूर्यः [15।6] इत्यादिनेश्वरमाहात्म्यस्यापि वचनात्कथमेतत् इत्यत उक्तम् -- प्राधान्येनेति। प्राचुर्यापेक्षया संग्राहकमेतदित्यर्थः। अवान्तरप्रतिपाद्यभेदादध्यायभेदः। तत्रयावत्सञ्जायते किञ्चित् [13।27] इत्युक्तविवरणपूर्वकंकारणं गुणसङ्गोऽस्य [13।22] इत्युक्तं गुणसम्बन्धं प्रपञ्च्य तदत्ययसाधनमनेनाध्यायेनोच्यते।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
।।14.2।।Sri Jayatirtha did not comment on this sloka.
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥
।।14.3।।अत्र महत् ब्रह्मेति जडाऽविद्योच्यत इति प्रतीतिनिरासार्थमाह -- महदिति। प्रकृतिर्महालक्ष्मीः। ननु सत्त्वं रजस्तम इति जडा प्रकृतिर्वक्ष्यते? तत्सन्निधानादत्रापि सैव युक्तेति चेत्? न तत्रापि चेतनप्रकृत्यभिधानात्? कथमस्याः सत्त्वादिभेदभिन्नत्वं इत्यत आह -- सा चेति। जडप्रकृतेरभिमानिनी तत्कार्यसत्त्वादिगुणाभिमानिन्येतद्रूपत्रयवतीत्यर्थः। ननु भगवती माहेश्वरी ब्राह्मी कौमारी माहेन्द्री श्रीर्भूर्दुर्गेति सप्तधा भिन्नाऽऽगमेषूच्यते? तत्कथं त्रिधा भिन्नोच्यते इत्यत आह -- उमेति। आद्याश्चतस्रो भगवत्या अन्याः। कुतः जीवाः। कथं तद्रूपत्वोक्तिः तदंशयुतास्तत्सन्निधानोपेताः। कुत एतत् इत्यत आह -- तथा चेति।मम योनिः इत्येतत्परे व्याचक्षते मम स्वरूपभूता योनिः कारणं विश्वस्य प्रतीत एवान्वये मम मातेत्यापत्तेरिति तन्निरासार्थमाह -- ममेति भार्येत्यर्थः। ममेत्यनुवादेनान्यथा प्रतीतावन्वयबाधः स्यादिति सूचयति। प्रतीतान्वयाङ्गीकारेमाता इत्यपि प्रतीयेत? तत्र कथं भार्येति निश्चयः इत्यत आह -- न त्विति। इति प्रतीतिः प्रसज्ज्यत इति शेषः। कुतो न इत्यत आह -- वाक्येति।तस्मिन् गर्भं दधाम्यहम् इति वाक्यशेषाद्भार्यार्थतानिश्चयात्। श्रुतिबलाच्चेत्याह -- तथा हीति। प्रकाशयन्ती प्रवर्तते। अनयैव श्रुत्याऽन्यदपि लब्धमिति प्रसङ्गादाह -- अत इति। मृषाऽयथार्थं प्रदर्शनं यस्य तत्तथा। इतश्चैवमेवेत्याह -- तथेति। तत्र ह्येवमुक्तम्दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः। रामायादर्शयत्सीतां पावकोऽसौ सुरप्रियः [ ] इत्यादि। ननु महालक्ष्मीः श्रीर्भूर्दुर्गेति भिन्नेत्युक्तम्। भुवश्चगौर्भूत्वाऽश्रुमुखी खिन्ना [भाग.10।1।18] इति दुःखं प्रतीयते? तत्कथं तत् इत्यत आह -- न चेति। इयं भूताभिमानिनी प्रसिद्धा भूः भगवत्या रूपं न भवति? किन्त्वियमन्यैव। कुतः इत्यत आह -- तथा चेति। महालक्ष्मीरूपं भूरन्या? इयं प्रसिद्धा? तस्य तस्याः। छाया प्रतिमा। ननु रावणहरणादिकं भवतु मायासीतायाः वाल्मीकिदास्यं तावन्मत्स्यपुराणे साक्षात्सीताया एवोक्तम्दास्ये च दुःखमवर्जनीयं इत्याशङ्कां प्रमाणपूर्वकमपाकरोति -- अवापेति। श्रुतिरस्ति।यतोऽतः इति शेषः। महद्ब्रह्म प्रकृतिरित्युक्तम्? तत्र प्रमाणं वक्तुं व्यवहितत्वात्पुनः प्रतिजानीते -- महदिति।महत्? ब्रह्म इति भिन्ने पदे ततः परमितिशब्दोऽध्याहार्यः। कुतः इत्यत आह -- महतीति। तत्रैव मत्स्यपुराणे। अर्थक्रमेणमम योनिर्महद्ब्रह्म इत्यत्र व्युत्क्रमेण व्याख्यानम्। मत्स्यपुराणोदाहरणप्रसङ्गादत्रोपपादनमिति।
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥
।।14.4।।Sri Jayatirtha did not comment on this sloka.
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥
।।14.5।।ननु प्रतिज्ञातं ज्ञानं श्लोकद्वयेनोक्तं? तत्किमुत्तरेण ग्रन्थेनाध्यायासङ्गतमुच्यते इत्यत आह -- बन्धेति। यो हि बद्धोऽस्मीति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वाऽनुतिष्ठति? अतो बन्धोच्छेदसाधनानुष्ठानाय तज्ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारमादौ तावद्दर्शयतीति नासङ्गतिरित्यर्थः।
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥
।।14.6।।Sri Jayatirtha did not comment on this sloka.
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥
।।14.7।।अत्ररजस्तृष्णासङ्गसमुद्भवं इत्यस्यतृष्णासङ्गाभ्यां समुद्भवो यस्य इत्यपव्याख्यानमिति भावेन विग्रहप्रदर्शनपूर्वकमर्थमाह -- तृष्णेति। समुद्भवत्यस्मादिति समुद्भवं कारणम्। अन्यथाप्रकृतिसम्भवाः (14।5) इत्युक्तविरोधात् समुद्भवशब्देनाविर्भावो विवक्षित इति चेत् तथापि गुणकार्यकथनप्रकरणविरोधात्।
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥
।।14.8।।तमस्त्वज्ञानजं इत्यस्यअज्ञानाज्जातं (शं.) इत्यपव्याख्यां प्रत्याख्यातुमाह -- अज्ञानमिति। एतच्चअन्येष्वपि दृश्यते [अष्टा.3।2।101] इति दृशिग्रहणसामर्थ्याल्लभ्यते। कुतः प्रतीत एवार्थो न इत्यत आह -- प्रमादेति। वाक्यशेषेऽज्ञानस्य तमःकार्यत्ववचनादित्यर्थः।
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
।।14.9।।सत्त्वमिति।
रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥
।।14.10।।Sri Jayatirtha did not comment on this sloka.
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥
।।14.11।।Sri Jayatirtha did not comment on this sloka.
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥
।।14.12।।Sri Jayatirtha did not comment on this sloka.
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥
।।14.13।।Sri Jayatirtha did not comment on this sloka.
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥
।।14.14।।Sri Jayatirtha did not comment on this sloka.
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥
।।14.15।।Sri Jayatirtha did not comment on this sloka.
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
।।14.16।।दुःखशब्दः केवलदुःखवाचीत्यन्यथाप्रतीतिनिरासायाह रजस इति। दुःखशब्देनोच्यत इति शेषः। तत्कथं इत्यत उक्तम् अल्पेति। अल्पत्वात्सुखस्याविवक्षेति भावः। कुतः इत्यत आह -- तथा हीति। रजस इति पञ्चमी। मात्रयेति सुखविशेषणम्। स्तोकात्मकं सुखं दुःखं चेत्यर्थः। तान् राजसकर्मिणः। केवलदुःखार्थाङ्गीकारे बाधकं चाह -- अन्यथेति। अतिकष्टत्वात् ज्ञानादपि कष्टत्वात्। तत्फलकस्य रजसः। तथा चमध्ये तिष्ठन्ति राजसाः ৷৷. अधो गच्छिन्ति तामसाः। [14।18] इत्याद्ययुक्तं स्यादिति भावः।
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
।।14.17।।Sri Jayatirtha did not comment on this sloka.
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥
।।14.18।।Sri Jayatirtha did not comment on this sloka.
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥
।।14.19 -- 14.20।।नान्यं गुणेभ्यः कर्तारं इति स्वतन्त्रकर्तृत्वं गुणानामेव? नान्यस्येत्युच्यत इत्यपव्याख्याननिरासार्थमाह -- परिणामीति। कुत एतत् इत्यत आह -- अन्यथेति गुणेभ्योऽन्यस्य कर्तृत्वाभावे। मोक्षधर्मे परमेश्वरस्य कर्तृत्वमुक्तं तद्विरोधश्चेति वाक्यशेषः।
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥
।।14.19 -- 14.20।।नान्यं गुणेभ्यः कर्तारं इति स्वतन्त्रकर्तृत्वं गुणानामेव? नान्यस्येत्युच्यत इत्यपव्याख्याननिरासार्थमाह -- परिणामीति। कुत एतत् इत्यत आह -- अन्यथेति गुणेभ्योऽन्यस्य कर्तृत्वाभावे। मोक्षधर्मे परमेश्वरस्य कर्तृत्वमुक्तं तद्विरोधश्चेति वाक्यशेषः।
अर्जुन उवाच। कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥
।।14.21।।Sri Jayatirtha did not comment on this sloka.
श्रीभगवानुवाच। प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥
।।14.22।।प्रकाशं च प्रवृत्तिं च इत्यनेन गुणातीतस्य सर्वथा सत्त्वादिगुणकार्येषु प्रकाशादिषु द्वेषाकाङ्क्षे न स्त इत्युच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- प्राय इति। इदमुक्तं भवति -- सत्त्वादयो गुणा द्विविधाः स्थूलाः सूक्ष्माश्च? तत्र स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहाः जायन्ते सूक्ष्मेभ्यस्तु परमेश्वरादिविषयाः। तत्राद्येषु गुणातीतस्य द्वेषाकाङ्क्षे प्रायो न स्तः। न तु सर्वथा प्रारब्धवशात्कदाचित्सम्भवात्। द्वितीयेषु तु आकाङ्क्षादिकं विद्यत एवेति कुत एतत् इत्यत आह -- तथा हीति। यद्यपिन द्वेष्टि इत्यादिकमुक्तम्? तथापि यदि सुतमः सूक्ष्मतमो दैववशात्तं प्रविष्टं स्यात्? तदाऽसौ तज्जह्यात् द्विष्यात्। गुणातीतानां च सूक्ष्मसत्त्वसद्भावे भारतवाक्यं च पठति -- नहीति। यदि देवा ऋषयश्च सूक्ष्मेण सत्त्वेन हीनाः स्युः? तदा सत्त्वस्था इति नोच्येरन्? किन्तु ततस्तदा वैकारिका मताः प्रसज्येरन्? ततः किं कथं वैकारिको गच्छेत् पुरुषोत्तमम् तेषां मोक्षो न स्यादिति यावत्। अस्ति च तेषां मोक्षोऽतः सूक्ष्मसत्त्ववन्त एव त इत्यर्थः। सात्त्विकः सूक्ष्मसत्त्ववान्।ससूक्ष्मसत्त्वसंयुक्तः संयुक्तस्त्रिभिरक्षरैः। पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकः।। इति सूक्ष्मसत्त्वप्रकरणात्। मोक्षार्थनिश्चितः,मोक्षलक्षणे पुरुषार्थे निश्चितः।
उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥
।।14.23।।Sri Jayatirtha did not comment on this sloka.
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥
।।14.24 -- 14.25।।समदुःखसुखः [14।24] इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- तुल्यत्वेति। तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः। प्रायः सर्वानित्याद्युक्तरीत्येति भावः।
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
।।14.24 -- 14.25।।समदुःखसुखः [14।24] इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह -- तुल्यत्वेति। तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः। प्रायः सर्वानित्याद्युक्तरीत्येति भावः।
मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥
।।14.26।।ब्रह्मभूयाय इत्यस्य परब्रह्मत्वायेति व्याख्यानं प्रमाणविरुद्धमिति भावेनान्यथा व्याचष्टे -- ब्रह्मवदिति। नात्र ब्रह्मशब्दं परं ब्रह्म? किन्तुमम योनिर्महद्ब्रह्म [14।3] इति प्रकृता प्रकृतिरेवब्रह्मणो हि प्रतिष्ठाऽहं [13।27] इत्युत्तरवाक्यात्। तद्भूयं च न तादात्म्यं? किन्तु तद्वद्भगवत्प्रियत्वमेव अन्यस्यान्यभावायोगादिति भावः। तत्किं यावत्प्रकृतेर्भगवत्प्रियत्वं तावद्गुणातीतस्येत्यतः सप्रमाणमाह -- न त्विति। तत्किं भूयशब्दः प्रियत्ववाची येनैवं व्याख्यायते इत्यत आह -- भूयायेति। भुवो भाव इति वचनाद्भावो भवनं भूयशब्दार्थः। ब्रह्मवद्भावो ब्रह्मभूयम्।वदः सुपि [अष्टा.3।1।106] इति सुबन्तमात्रस्योपपदस्यानुवृत्तेः। वत्यर्थस्य च वृत्तावन्तर्भावात्। मयूरव्यंसकादिवत्। वत्यर्थश्च प्रियत्वमिति तदुक्तमिति भावः।
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥
।।14.27।।ब्रह्मणो हि इत्येतत्परब्रह्मणो हि इति व्याचक्षते (शां.) तदसत्? प्रतिष्ठाऽहमिति वचनात्। उपचारोऽसाविति चेत्? न मुख्ये सम्भवति तदुपादानायोगादिति भावेनाह -- ब्रह्मण इति। मायेति प्रकृता महालक्ष्मीः।