18.1Arjuna

अर्जुन उवाच। संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥

Commentary · Sanskrit

।।18.1।।अध्यायप्रतिपाद्यमाह -- पूर्वोक्तमिति। साधनं ज्ञानसाधनम्। उक्तस्योक्तिर्व्यर्थेत्याशङ्कानिरासाय सङ्क्षिप्योपसंहरतीत्युक्तम्। अनुक्तं त्रैगुण्यं च वक्तीत्यपि ग्राह्यम्।

Compare this verse →
18.2Krishna

श्रीभगवानुवाच। काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥

Commentary · Sanskrit

Sanskrit Commentary By Sri Jayatritha।।18.2।।काम्यानां कर्मणां इत्येतं श्लोकं केचिद्व्याचक्षते -- काम्यानां कर्मणामश्वमेधादीनां स्वरूपेण त्यागः सन्न्यासः? नित्यनैमित्तिकादिसर्वकर्मफलत्यागस्त्यागः इति? तदसदिति भावेनाऽऽह -- फलेति। वैकल्पिककाम्यानां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागो नियतकाम्यानां स्वरूपाकरणेन त्यागः सन्न्यासः? काम्यकर्मणामेव फलत्यागस्तु त्यागः करणाकरणे तु न विवक्षित इत्यर्थः। कुत एतत् इत्यत आह -- तथा हीति। अकर्मणा अकरणेन जनकाश्वपत्यादिभिर्मुमुक्षुभिरश्वमेधादीनामनुद्दिष्टफलानामनुष्ठानान्न काम्यानां स्वरूपपरित्याग एव नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन तत्त्यागो न युक्तः।

Compare this verse →
18.3Krishna

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥

Commentary · Sanskrit

।।18.3।।त्याज्यं दोषवत् इत्यनेन हेयः कापिलानां पक्ष उपन्यस्त इति केचित्? तदसदिति भावेनाऽऽह -- मनीषिण इति। पूर्वपक्षः पूर्वोपन्यस्तः पक्षः। ननुयज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् [18।5] इति भगवन्मतविरुद्धोऽसौ कथं ग्राह्यः इत्यत आह -- फलत्यागेनेति। फलत्यागाभिप्रायेण यज्ञादेस्त्यागो विवक्षितः? तत्पक्षे न स्वरूपतः। कुतःमनीषिणः इति विशेषणादेव। अतो न भगवन्मतविरुद्धोऽसौ। कर्मत्यागशब्दः कथं फलत्यागेनार्थेनार्थवानित्यत आह -- यस्त्विति। नन्वेवं सति पूर्वोत्तरार्धोपन्यस्तयोः पक्षयोरविरोध आपद्यत इति चेत् सत्यं? इत्याह -- अत इति। अतो मनीषिपक्षत्वादेकोऽविरुद्धः। अयं पूर्वोत्तरार्धोपन्यस्तः किन्त्वापापप्रतीतिमपेक्ष्य सन्देहबीजत्वेन विप्रतिपत्तिरियमुद्भावितेति भावः।

Compare this verse →
18.4Krishna

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

Commentary · Sanskrit

।।18.4।।न केवलं मनीषिण इति विशेषणसामर्थ्यादिवमुच्यते? किन्तु भगवताऽपि तदविरोधप्रकारस्य व्युत्पाद्यमानत्वादिति भावेनोत्तरवाक्यतात्पर्यमाह -- तदिति। न तु परमहंसानां यज्ञदानयोरभावात् कथमुच्यतेन त्याज्यं कार्यमेव तत् [18।5] इति तत्राऽऽह यज्ञेति। ननु ज्योतिष्टोमादिकमेव यज्ञो धनदानादिकमेव दानं गृहीत्वा पारमहंस्यमेव कुतो न निराक्रियते इत्यत आह -- अन्यथेति। यतिर्हंसादिः। आस्थातुं प्राप्तुम्। उत्तमाश्रमं पारमहंस्यम्। नन्वेतेषां मध्य इत्येवं व्याख्यानेऽपि कथं परमहंसानां यज्ञादिसम्भव इत्यत आह -- ज्ञानेति। बहुव्रीहित्रयगर्भः कर्मधारयोऽयम्। विद्याभयविषयं दानं येषां ते तथोक्तास्ते परमहंसाः। ननु पारमहंस्ये हि प्रवृत्तः प्रियव्रतो हिरण्यगर्भेण निवारित इति पुराणेषूच्यते [भाग.5।1।1119] तत्कथं पारमहंस्यकर्तव्यता इत्यत आह -- अत इति। उक्तवाक्याविरोधादेव वाक्यत्वाविशेषात् पुराणवाक्येनैव स्मृतेर्बाधः किं न स्यात् इत्याह -- अन्यथेति। एवमयोजने इतरेषां ब्रह्मचारीत्यादीनां गत्यन्तराभावादप्रामाण्यमेव प्रसज्यत इति शेषः। एवं परमहंसानामपि यज्ञादिकर्तव्यतासम्पादनेनेदमपि परास्तम्। यत्केनचिदुक्तम् --,अज्ञान्कर्मण्यधिकारिणोऽधिकृत्य एतत्प्रकरणं प्रवृत्तं? न परमहंसपरिव्राजकानिति।

Compare this verse →
18.5Krishna

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥

Commentary · Sanskrit

।।18.5।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.6Krishna

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥

Commentary · Sanskrit

।।18.6।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.7Krishna

नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥

Commentary · Sanskrit

।।18.7।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.8Krishna

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥

Commentary · Sanskrit

।।18.8।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.9Krishna

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥

Commentary · Sanskrit

।।18.9।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.10Krishna

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥

Commentary · Sanskrit

।।18.10।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.11Krishna

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥

Commentary · Sanskrit

।।18.11।।ननुइति मे पार्थ [18।6] इति भगवता स्वसिद्धान्तो निष्ठाङ्कितः? अतोन हि देहभृता इति किमुच्यते इत्यत आह -- अन्य इति। सर्वकर्मपरित्यागलक्षणस्त्यागार्थस्त्यागशब्दार्थः। पूर्वपक्षबीजनिरासार्थमिति शेषः।

Compare this verse →
18.12Krishna

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥

Commentary · Sanskrit

।।18.12।।कर्मफलाभावो नाम संसारनिवृत्तिरेव? सा कथं त्यागफलत्वेनोच्यते इत्यत आह -- त्यागमिति। उपपादितमेतत्त्यागाच्छान्तिः [12।12] इत्यत्र।

Compare this verse →
18.13Krishna

पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

Commentary · Sanskrit

।।18.13।।पञ्चेत्यादेः प्रकृतेन सङ्गत्यप्रतीतेस्तामाह -- पुनरिति। न केवलं काम्यानां कर्मणां न्यासः सन्न्यासः? किन्तु कर्तृत्वाभिमानत्यागश्चेत्येवं प्रागुक्तं सन्न्यासं पुनः प्रपञ्चयितुं आत्मनोऽकर्तृत्वे क्रियानिष्पत्तिप्रसङ्गादङ्गीकार्ये कर्तृत्वे कथं तदभिमानत्यागो युक्तः इत्याशङ्कापरिहारार्थमात्यव्यतिरिक्तान्येव कर्मकारणान्याहेत्यर्थः। साङ्ख्यशब्दः कापिलतन्त्रे रूढः। कृतं कर्म तस्यान्तो निवृत्तिर्यत्रोच्य इत्युपनिषत्सु कृतान्तशब्दं कश्चिद्व्याख्यातवान्? तदुभयं निवर्तयितुमाह -- साङ्ख्य इति। ज्ञानार्थः सिद्धान्तो ज्ञानसिद्धान्तः सिद्धान्त इति शास्त्रं लक्ष्यते? कापिलतन्त्रस्य निन्दितत्वात् उपनिषत्स्वपि कर्मत्यागाप्रतिपादनात्।

Compare this verse →
18.14Krishna

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥

Commentary · Sanskrit

।।18.14 -- 18.15।।अधिष्ठानादि करण एवान्तर्भूतमिति वक्ष्यति? तत्प्रबोधनायाधिष्ठानं निर्दिशति -- अधिष्ठानमिति। आदिपदेन भूम्यादि। कर्ता जीव इति व्याख्यानमसदिति भावेनाऽऽह -- कर्तेति। शंरीरवाङ्मनोभिः क्रियमाणानां कर्मणां कर्ता कथं विष्णुः इत्यत आह -- स हीति। उक्तमुपपादितम्। तथापि जीवोऽत्र कर्ता किं न स्यात् इत्यत आह -- जीवस्य चेति। अपराधीनत्वाभिप्रायेणेदं निराकरणं? पराधीनं कर्तृत्वमङ्गीकृत्यान्यत्र जीवो व्याख्यात इत्यविरोधः। भावसाधनताप्रतीतिनिरासार्थमाह -- करणमिति। आदिपदेन स्रुवादि। भावसाधनार्थस्य साध्यत्वाच्चेष्टाग्रहणेन च गृहीतत्वाच्च। वायवीयाः प्राणापानाद्याश्चेष्टाः (शां.) इत्यसत्। द्रव्याभिधाने चेष्टात्वानुपपत्तेः। प्राणनाद्यभिधाने साध्यत्वात्कारकत्वानुपपत्तेरित्याशयवानाह -- चेष्टा इति। क्रियाणां साधकत्वात्कथं कारकत्वं इत्यत आह -- हस्तादीति। सावान्तरव्यापारं हि करणं कारकमुच्यते। तत्राधिष्ठानादिपदैर्व्यापारिणो निर्दिश्यन्ते। क्रियाशब्देन त्ववान्तरा व्यापाराः। कारकाश्रिताभिरवान्तरक्रियाभिः प्रधानक्रियाजननं च प्रसिद्धमेवेत्यर्थः।नन्वत्र कारकाभिधानप्रसङ्गेऽधिष्ठानाद्येवोक्तं कर्मसम्प्रदानापादानानि कुतो नोक्तानि अधिष्ठानादीनां सर्वक्रियानुगमात् कर्मादीनां तदभावादिति ब्रूमः। तथा च वक्ष्यति -- शरीरवाङ्मनोभिर्यत् [18।15] इति। एवं तर्हि चेष्टाऽपि न वक्तव्या। ध्यानादिजनने करणस्य मनसश्चेष्टाभावेनानुगमादित्यत आह -- ध्यानादेरपीति। आदिपदेन स्मरणं गृह्यते? ज्ञात एवार्थे ध्यानं भवति? ज्ञानं चात्मेन्द्रियसन्निकृष्टेनैव मनसा जायते? सन्निकर्षश्च मानसचेष्टाजन्यः? अतो ध्यानादेरपि मनस्सम्बन्धिनी चेष्टा कारणं भवतीति भावः। ननु नियतपूर्वक्षणे सत्कारणं न च ध्यानादिपूर्वक्षणे मनसि क्रियाऽस्ति चिरातीतत्वात्। मनोनैश्चल्यसाध्यत्वाद्ध्यानादेः। न च सन्निकर्षज्ञानद्वारा करणं तस्यापि चिरातीतत्वादित्यत आह -- पूर्वतनीति। पूर्वतनी चिरातीताऽपि मानसी क्रिया सन्निकर्षद्वारा ध्यानादिहेतुसंस्कारकारणत्वेन भवति? ध्यानादेः कारणसंस्कारस्य स्थायित्वादित्यर्थः। दैवमन्तर्यामिव्यापार इति कश्चित्? तदसत् कर्तेत्यनेनैवोक्तत्वात्। चक्षुराद्यनुग्राहकाः सूर्यादय इत्यपरः [वें.ब्र.] तदप्यसत् करणादिशब्दैरेव गृहीतत्वादिति भावेनाऽऽह -- दैवमदृष्टमिति। उक्तमर्थं श्रुतिसम्मत्याऽपि समर्थयते -- तथा चेति। देह इत्युपलक्षणम्। हेतुः कारणम्। कर्म हेत्विति क्वचित्पाठः? तत्र छान्दसो लिङ्गव्यत्ययः।

Compare this verse →
18.15Krishna

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥

Commentary · Sanskrit

।।18.14 -- 18.15।।अधिष्ठानादि करण एवान्तर्भूतमिति वक्ष्यति? तत्प्रबोधनायाधिष्ठानं निर्दिशति -- अधिष्ठानमिति। आदिपदेन भूम्यादि। कर्ता जीव इति व्याख्यानमसदिति भावेनाऽऽह -- कर्तेति। शंरीरवाङ्मनोभिः क्रियमाणानां कर्मणां कर्ता कथं विष्णुः इत्यत आह -- स हीति। उक्तमुपपादितम्। तथापि जीवोऽत्र कर्ता किं न स्यात् इत्यत आह -- जीवस्य चेति। अपराधीनत्वाभिप्रायेणेदं निराकरणं? पराधीनं कर्तृत्वमङ्गीकृत्यान्यत्र जीवो व्याख्यात इत्यविरोधः। भावसाधनताप्रतीतिनिरासार्थमाह -- करणमिति। आदिपदेन स्रुवादि। भावसाधनार्थस्य साध्यत्वाच्चेष्टाग्रहणेन च गृहीतत्वाच्च। वायवीयाः प्राणापानाद्याश्चेष्टाः (शां.) इत्यसत्। द्रव्याभिधाने चेष्टात्वानुपपत्तेः। प्राणनाद्यभिधाने साध्यत्वात्कारकत्वानुपपत्तेरित्याशयवानाह -- चेष्टा इति। क्रियाणां साधकत्वात्कथं कारकत्वं इत्यत आह -- हस्तादीति। सावान्तरव्यापारं हि करणं कारकमुच्यते। तत्राधिष्ठानादिपदैर्व्यापारिणो निर्दिश्यन्ते। क्रियाशब्देन त्ववान्तरा व्यापाराः। कारकाश्रिताभिरवान्तरक्रियाभिः प्रधानक्रियाजननं च प्रसिद्धमेवेत्यर्थः।नन्वत्र कारकाभिधानप्रसङ्गेऽधिष्ठानाद्येवोक्तं कर्मसम्प्रदानापादानानि कुतो नोक्तानि अधिष्ठानादीनां सर्वक्रियानुगमात् कर्मादीनां तदभावादिति ब्रूमः। तथा च वक्ष्यति -- शरीरवाङ्मनोभिर्यत् [18।15] इति। एवं,तर्हि चेष्टाऽपि न वक्तव्या। ध्यानादिजनने करणस्य मनसश्चेष्टाभावेनानुगमादित्यत आह -- ध्यानादेरपीति। आदिपदेन स्मरणं गृह्यते? ज्ञात एवार्थे ध्यानं भवति? ज्ञानं चात्मेन्द्रियसन्निकृष्टेनैव मनसा जायते? सन्निकर्षश्च मानसचेष्टाजन्यः? अतो ध्यानादेरपि मनस्सम्बन्धिनी चेष्टा कारणं भवतीति भावः। ननु नियतपूर्वक्षणे सत्कारणं न च ध्यानादिपूर्वक्षणे मनसि क्रियाऽस्ति चिरातीतत्वात्। मनोनैश्चल्यसाध्यत्वाद्ध्यानादेः। न च सन्निकर्षज्ञानद्वारा करणं तस्यापि चिरातीतत्वादित्यत आह -- पूर्वतनीति। पूर्वतनी चिरातीताऽपि मानसी क्रिया सन्निकर्षद्वारा ध्यानादिहेतुसंस्कारकारणत्वेन भवति? ध्यानादेः कारणसंस्कारस्य स्थायित्वादित्यर्थः। दैवमन्तर्यामिव्यापार इति कश्चित्? तदसत् कर्तेत्यनेनैवोक्तत्वात्। चक्षुराद्यनुग्राहकाः सूर्यादय इत्यपरः [वें.ब्र.] तदप्यसत् करणादिशब्दैरेव गृहीतत्वादिति भावेनाऽऽह -- दैवमदृष्टमिति। उक्तमर्थं श्रुतिसम्मत्याऽपि समर्थयते -- तथा चेति। देह इत्युपलक्षणम्। हेतुः कारणम्। कर्म हेत्विति क्वचित्पाठः? तत्र छान्दसो लिङ्गव्यत्ययः।

Compare this verse →
18.16Krishna

तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥

Commentary · Sanskrit

।।18.16।।न चैवं जीवस्य कर्मकारणेष्वनन्तर्भावे व्याख्यायमानेतत्रैवं सति इत्युत्तरवाक्ये केवलमिति न युज्यते? एकाकिनमात्मानं कारणत्वेन मन्यमानस्य निन्दयाऽस्य सहायस्य कारणत्वप्रतीतेरित्यत आह -- केवलमिति। नात्र केवलशब्द एकाकिवचनः? किन्तु निष्क्रियत्ववाची तदुक्तिश्च निन्दोपपादनार्थेति भावः। केवलशब्दस्य निष्क्रियार्थत्वं कुतः इत्यत आह -- एनमिति। तत्रैवायास्यश्रुतावेवोक्तम्।

Compare this verse →
18.17Krishna

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥

Commentary · Sanskrit

।।18.17।।अवश्यं चैतदेवं यावतोत्तरश्लोके स्वात्मानकारणं जानतः स्तुतिः क्रियते? अन्यथा सहायस्य कारणत्वं जानतः स्तुतिः क्रियते? अन्यथा सहायस्य कारणत्वं जानतः स्तुतिः क्रियेतेति भावेनाऽऽह -- तदिति। स्वात्मनो निष्क्रियत्वज्ञानम्। ननु निरहङ्कारस्यापि इन्द्रादेर्वृत्रवधादिनेषद्बन्धो दृश्यते तत्कथमेतत् इत्यत आह -- यस्त्विति। इयं च कल्पना वक्तुराप्तत्वादिना युज्यते।

Compare this verse →
18.18Krishna

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥

Commentary · Sanskrit

।।18.18।।यदि न जीवस्य कारणत्वं कथं तर्हि तज्ज्ञानादेरुत्तरवाक्ये कर्मणां मूलकारणत्वमुच्यते ज्ञानादित्रयं कर्मणां प्रवर्त्तकमितीत्याशङ्क्य तस्यार्थान्तरं विवक्षुस्तन्निवर्त्यामाशङ्कामाह -- एवं तर्हीति। यदि जीवो न कर्मणां कारणमित्यर्थः। विधिः श्रौतः स्मार्तश्च। न प्रवर्तेत ततश्च तद्वैयर्थ्यप्रसङ्ग इति शेषः। एवं तर्हीत्युक्तस्यैव विवरणम् -- अकर्तृत्वादिति। जीवस्य घटवदिति शेषः। ननु ज्ञानादिरूपेण कर्मचोदनायास्त्रैविध्यमयुक्तम्? अनुपयुक्तं च कथमुच्यते नियोक्तुः प्रेरणं हि विधिः? न च तज्ज्ञानादित्रयरूपम्। न चानेनोक्तशङ्कानिवृत्तिरित्यत आह -- त्रिविधेति। स्पष्टप्रतीत्यर्थोऽनुवादः। इत्यत्रेति शेषः। एतत् ज्ञानादिकम्। कर्मविधिः प्रवर्तते? जीवं प्रतीति शेषः। इतिशब्दो हेतौ। त्रिविधेत्युच्यते कर्मचोदना निमित्तकनैमित्तिकभावेनाभेदोपचार इत्यर्थः। कर्मकारणानामुक्तत्वात्किमिदं पुनरुच्यते इत्यत आह -- कारणानीति। तर्हि कर्मसङ्ग्रह इति कथं कारणसङ्ग्रहः इति वक्तव्यत्वादित्यत आह -- कर्मेति। कर्मशब्देन तत्कारणानि लक्ष्यन्त इत्यर्थः। यदि पञ्चानां कारणानामयं सङ्ग्रहस्तर्हि कस्य कुत्रान्तर्भावः इत्यत आह -- अधिष्ठानादीति। आदिपदेन दैवपदोक्तमदृष्टं गृह्यते।कांस्यपात्र्याभुङक्तेदैवेन कृतमन्यथा इत्यादिवत्साधकतमत्वेन विवक्षितत्वात्विवक्षातः कारकाणि भवन्ति इति वचनात्। न चादिपदेन चेष्टायाः सङ्ग्रहः तत्र कारकान्तर्भावस्यैवौचित्यात्? कर्मेति पृथग्ग्रहणाच्च। न च कर्मादृष्टम्कर्म चेष्टा इत्यन्यत्र व्याख्यातत्वात्।कर्तुरीप्सिततमं कर्म [अष्टा.1।4।49] इति कश्चित्। तदसत्? पञ्चसु कारणेषु तस्यागृहीतत्वात्।श्लोकार्थे श्रुतिसम्मतिं चाऽऽह -- तथा हीति। कर्मेत्यावर्तनीयम्। तत्रैकं व्यस्तम्? परं समस्तम्। ननुज्ञानं ज्ञेयं इत्यनेन कथमुक्तशङ्कानिरासः इत्यत आह -- अकर्तृत्वेऽपीति। अपराधीनकर्तृत्वाभावेऽपि जीवस्य न तं प्रति विधिवैयर्थ्यम्। कुतः इति हेतोरित्यन्वयः। विधिशब्देन तत् ज्ञानमुपलक्ष्यते इच्छेत्यनेन प्रयत्नोऽपि। उक्तकारणैरधिष्ठानादिभिः। अनेन ज्ञानं विधिविषयं चेच्छाप्रयत्नलक्षणमधिष्ठानादिलक्षणं पुरुषार्थलक्षणं च परिज्ञाता सर्वज्ञ ईश्वरश्च सर्वप्रेरको जीवे सन्निहितोऽस्ति। अतस्तं प्रति कर्मचोदनेत्यर्थः सूचितो भवति। एतदुक्तं भवति -- नापराधीनकर्तृत्वं विधिविषयत्वे प्रयोजकं येन जीवं प्रति कमविधिवैयर्थ्यं स्यात्। तथा सतीश्वरस्याऽपि विधिविषयत्वापातात्? किन्तु यस्य स्वसम्बन्धितया विधिज्ञानं कर्म तत्फलं चोद्दिश्येच्छा,तदनुगुणश्च प्रयत्नोऽधिष्ठानादिसन्निधानं कर्मसम्बन्धः फलभाक्त्वं चास्ति। तं प्रति कर्मविधयः प्रवर्तन्ते। अस्ति चेदं समस्तं परमेश्वरप्रसादायत्तं जीव इति कथं न तं प्रति कर्मविधयः स्युः एतत्सङ्ग्रहवाक्यमुत्तरवाक्यैर्विव्रीयते। नन्वीश्वरश्चेत्प्रेरको जीवशरीरेऽभ्युपगतस्तदा तत्प्रसादादेवेच्छाप्रयत्नयोरुत्पादनात्। किन्तु विधिज्ञानमङ्गीक्रियत इत्यत आह -- ईश्वरेति। इच्छति प्रयतते चेति शेषः। अनेन विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्येतद्विवृतं भवति।उक्तकारणैः कर्म भवतीत्युक्तम्? तेनाधिष्ठानादीनां स्वव्यापारे स्वातन्त्र्यं प्राप्तं तन्निरासार्थमाह -- यदि चेति। ईश्वरेणैव कर्म अधिष्ठानादीनि निमित्तमात्राणि कृत्वा कारितं भवति। अत्र णिचं प्रयुञ्जानस्य स्वातन्त्र्यं चेति वक्ष्यमाणाभिप्रायः। कर्मद्वारा पुरुषार्थो भवतीति पुरुषार्थसाधने कर्मणां प्राधान्यं प्राप्तमत आह -- फलं चेति। ईश्वरेणैवेति वर्तते? यद्वायदि च इत्यादिना वाक्यद्वयेन विधिविषयतासिद्धये कर्मफलसम्बन्धस्य काकतालीयता निराक्रियते। इदं च नेश्वरमुक्तजडेषु विध्यविषयेष्वस्ति? किन्तु संसारिष्वेवेति भवति प्रयोजकम्। एवमेकं गीतोक्तं कारणमुक्त्वा भाष्यकारः कारणान्तरं चाऽऽह -- वस्तुत इति। वस्तुतः परमार्थतः। अभिमानिकमहङ्कारकारितं भ्रान्तिप्रतीतम्। तस्य जीवस्य? एवेत्यवधारणेनास्य जीवं प्रति विधिप्रवृत्तौ प्रयोजकत्वं समर्थयते। परमेश्वरकृतासु क्रियासु स्वस्य स्वातन्त्र्यं मन्यमानस्यापराधिनो विधिबन्धलक्षणो दण्ड इति भावः। प्रकारान्तरमाह -- स्वातन्त्र्यं चेति। तस्येति वर्तते। स्यादिदं विधिप्रवृत्ति(प्रवृत्तिविधि इति पाठः कृष्णाचार्याणाम्)वैयर्थ्यम्। यदि जीवस्य क्रियास्वातन्त्र्यलक्षणं कर्तृत्वं सर्वथा न स्यात्। न चैवम्? ईश्वरायत्तस्य तस्याङ्गीकारात् अपराधीनापेक्षया तदभावोक्तेः। न चैवं जडतौल्यमित्यत आह -- जडमपेक्ष्येति। अधिकमिति शेषः। जडं हि तदा परकृतेन नोदनादिना क्रियावद्भवति। न त्वागन्तुककारणमन्तरेण स्वेच्छया जीवस्त्वनादिसिद्धया परमेश्वरप्रसादायत्तया सत्तातुल्यया क्रियाशक्त्या कर्तेति युक्तस्तं प्रति कर्मविधिरिति। नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यं इत्यत आह -- सर्वं चेति। अनुभवेनोक्तप्रमाणैश्च विधिज्ञाने सतीच्छोत्पत्तिरित्यादिकं अनुभवसिद्धम्।ईश्वरप्रसादात् इत्यादिकं तुयथानियुक्तोऽस्मि इत्याद्युदाहृतागमसिद्धम्। पृथक् पुनः।

Compare this verse →
18.19Krishna

ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः। प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥

Commentary · Sanskrit

।।18.19।।ज्ञानं कर्मेत्यादेः प्रकृतोपयोगाप्रतीतेस्तं दर्शयन्नाह -- पुनरिति। मोक्षसाधनं प्रागपि गुणभेदानामुक्तत्वात्पुनरित्युक्तम्। गुणसङ्ख्यानशब्देन कापिलं शास्त्रमुच्यत इति भावेनाऽऽह -- गुणेति। तच्च वैदिकमभिप्रेतम्।

Compare this verse →
18.20Krishna

सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥

Commentary · Sanskrit

।।18.20।।एकं भावमिति सामान्येनोक्तम् कोऽसावेको भावः इत्याकाङ्क्षायामाह -- एकमिति।

Compare this verse →
18.21Krishna

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥

Commentary · Sanskrit

।।18.21।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.22Krishna

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥

Commentary · Sanskrit

।।18.22।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.23Krishna

नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥

Commentary · Sanskrit

।।18.23।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.24Krishna

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥

Commentary · Sanskrit

।।18.24।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.25Krishna

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥

Commentary · Sanskrit

।।18.25।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.26Krishna

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥

Commentary · Sanskrit

।।18.26।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.27Krishna

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

Commentary · Sanskrit

।।18.27।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.28Krishna

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥

Commentary · Sanskrit

।।18.28।।दीर्घसूत्रित्वं कथं तामसत्वे हेतुः इत्यतः सप्रमाणकं व्याचष्टे -- परेति। दीर्घकालकृतं चिरातीतकालकृतम्। अनुचितं वचनायोग्यं? परोपद्रवहेतुत्वात्। दोषान्मात्सर्यादेः।

Compare this verse →
18.29Krishna

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥

Commentary · Sanskrit

।।18.29।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.30Krishna

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

Commentary · Sanskrit

।।18.30।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.31Krishna

यया धर्ममधर्मं च कार्यं चाकार्यमेव च। अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥

Commentary · Sanskrit

।।18.31।।यया धर्ममधर्मं चेति राजस्या बुद्धेर्धर्मादिविषयायाः अयथार्थज्ञानहेतुत्वमुच्यत,इत्यन्यथाप्रतीतिनिरासार्थमाह -- यथार्थत्वेति। अयथावत्प्रजानातीत्यस्य यथार्थज्ञानजनननियमाभावे तात्पर्यमित्यर्थः। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- अन्यथेति।राजस्याः इति षष्ठ्यन्तमनुवर्तते।तामस्याः इति पञ्चमी? भेदाभावाद्भेदाभावप्रसङ्गात्।

Compare this verse →
18.32Krishna

अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥

Commentary · Sanskrit

।।18.32।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.33Krishna

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

Commentary · Sanskrit

।।18.33।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.34Krishna

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

Commentary · Sanskrit

।।18.34।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.35Krishna

यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

Commentary · Sanskrit

।।18.35।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.36Krishna

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥

Commentary · Sanskrit

।।18.36।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.37Krishna

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥

Commentary · Sanskrit

।।18.37।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.38Krishna

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥

Commentary · Sanskrit

।।18.38।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.39Krishna

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥

Commentary · Sanskrit

।।18.39।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.40Krishna

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥

Commentary · Sanskrit

।।18.40।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.41Krishna

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥

Commentary · Sanskrit

।।18.41।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.42Krishna

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

Commentary · Sanskrit

।।18.42।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.43Krishna

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥

Commentary · Sanskrit

।।18.43।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.44Krishna

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥

Commentary · Sanskrit

।।18.44।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.45Krishna

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥

Commentary · Sanskrit

।।5.10।।ननुयोगयुक्तः 7।5 इत्यनेन यत्सन्न्यासयोगयुक्तस्य कर्मालेपलक्षणं फलमुक्तं तदेव तस्यब्रह्मण्याधाय इति किमर्थं पुनरुच्यते इत्यत आह सन्न्यासेति। प्रागुक्तस्यैव नियमोऽत्र क्रियते। सिद्धे सत्यारम्भस्य नियमार्थत्वादिति भावः। योगविवरणं च किञ्चिदधिकमिति चार्थः। ननु सन्न्यासस्त्वित्यनेनैव सन्न्यासयोगौ मिलितावेव फलं साधयत इति नियमोऽपि लब्ध एव तत्किमर्थमिदं सन्न्यासयोगयुक्तस्यकुर्वन्नपि न लिप्यते 5।7लिप्यते न स पापेन इति पुनः पुनः फलकथनं इत्यत आह साधनेति। साधननियमस्येति तदुक्तेरित्यर्थः। सन्न्यासयोगौ मिलितावेव फलसाधनमिति नियमोक्तेरुपचारत्वमपि सम्भवति लोकवत्। तन्निवृत्त्यर्थमित्यर्थः।

Compare this verse →
18.46Krishna

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥

Commentary · Sanskrit

।।18.46।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.47Krishna

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥

Commentary · Sanskrit

।।18.47।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.48Krishna

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥

Commentary · Sanskrit

।।18.48।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.49Krishna

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥

Commentary · Sanskrit

।।18.49।।नैष्कर्म्यसिद्धिं मोक्षमिति केचित्? तदसत् तदनन्तरं मां विशते इति वाक्यशेषविरोधादिति भावेनान्यथा व्याचष्टे -- नैष्कर्म्येति। नैष्कर्म्यार्था सिद्धिर्नैष्कर्म्यसिद्धिः। सा च योगस्येत्यर्थः।

Compare this verse →
18.50Krishna

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

Commentary · Sanskrit

।।18.50।।सिद्धिं प्राप्तः इति योगसिद्धिप्राप्त्यनन्तरं ब्रह्मप्राप्तावुपायकथनं प्रतिज्ञायत इत्यन्यथाप्रतीतिनिरासार्थं व्याचष्टे -- यथेति।ब्रह्माप्नोति इत्यनुवादमात्रम्। तथा तमुपायम्। प्रतीत एवार्थः किं न स्यात् इति चेत्? न सिद्धेर्ज्ञाननिष्ठात्मकत्वेनाभिधानात्। ज्ञानस्य च ब्रह्मप्राप्तावनपेक्षत्वादिति भावेन निष्ठेत्येतद्व्याचष्टे -- येति।

Compare this verse →
18.51Krishna

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च। शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥

Commentary · Sanskrit

।।18.51।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.52Krishna

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥

Commentary · Sanskrit

।।18.52।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.53Krishna

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥

Commentary · Sanskrit

।।18.53।।ब्रह्मभूयाय ब्रह्मत्वायेति प्रतीतिनिरासार्थं व्याचष्टे -- ब्रह्मेति। इत्यर्थ इति शेषः। भावो न जन्मादीत्याशयेन विवृणोति -- ब्रह्मणीति। इयमपि न मुक्तिर्ब्रह्मभूत इति पुनर्भक्त्यादिलाभश्रवणादिति भावेनाऽऽह -- सर्वदेति।

Compare this verse →
18.54Krishna

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

Commentary · Sanskrit

।।18.54।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.55Krishna

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥

Commentary · Sanskrit

।।18.55।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.56Krishna

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥

Commentary · Sanskrit

।।18.56।।उत्तरग्रन्थस्य सङ्गतिं सूचयंस्तात्पर्यमाह -- पुनरिति। उपसंहरति? शास्त्रमिति शेषः।

Compare this verse →
18.57Krishna

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥

Commentary · Sanskrit

।।18.57।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.58Krishna

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि। अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥

Commentary · Sanskrit

।।18.58।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.59Krishna

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥

Commentary · Sanskrit

।।18.59।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.60Krishna

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥

Commentary · Sanskrit

।।18.60।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.61Krishna

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥

Commentary · Sanskrit

।।18.61।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.62Krishna

तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

Commentary · Sanskrit

।।18.62।।ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति [18।61]तमेव शरणं गच्छ तत्प्रसादात् इत्यादिरूपात्परोक्षवचनात्कृष्णस्यानीश्वरत्वं प्रतीयते। तन्निराकर्तुमाह -- परोक्षेति। निश्चितार्थत्वाभिप्रायेणान्यथासिद्धमिति शेषः।

Compare this verse →
18.63Krishna

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥

Commentary · Sanskrit

।।18.63।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.64Krishna

सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥

Commentary · Sanskrit

।।18.64।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.65Krishna

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥

Commentary · Sanskrit

।।18.65।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.66Krishna

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

Commentary · Sanskrit

।।18.66।।सर्वधर्मान् परित्यज्येति वर्णाश्रमविहितानामपि सर्वधर्माणां परित्यागो विधीयत इत्यन्यथाप्रतीतिनिरासार्थमाह -- धर्मेति। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- कथमिति। अस्मिञ्छास्त्रे क्रियत इति शेषः। अशाब्दोऽऽयमर्थ इति चेत्? न धर्मशब्दस्य स्वकार्यफलोपलक्षणत्वात्। एवमेव भगवता व्याख्यातत्वाच्चेत्याह -- यस्त्विति।

Compare this verse →
18.67Krishna

इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥

Commentary · Sanskrit

।।18.67।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.68Krishna

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥

Commentary · Sanskrit

।।18.68।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.69Krishna

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥

Commentary · Sanskrit

।।18.69।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.70Krishna

अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥

Commentary · Sanskrit

।।18.70।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.71Krishna

श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥

Commentary · Sanskrit

।।18.71।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.72Krishna

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥

Commentary · Sanskrit

।।18.72।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.73Arjuna

अर्जुन उवाच। नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥

Commentary · Sanskrit

।।18.73।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.74Sanjaya

सञ्जय उवाच। इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥

Commentary · Sanskrit

।।18.74।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.75Sanjaya

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥

Commentary · Sanskrit

।।18.75।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.76Sanjaya

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥

Commentary · Sanskrit

।।18.76।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.77Sanjaya

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥

Commentary · Sanskrit

।।18.77।।Sri Jayatirtha did not comment on this sloka.

Compare this verse →
18.78Sanjaya

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥

Commentary · Sanskrit

।।18.78।।इदानीं समापितभाष्यो भगवानाचार्यो भाष्यनिर्माणस्य फलं भगवत्प्रीतिमेवाशास्ते -- पूर्णेति। एतद्गीतामित्यनेन निरूपणमित्यनेन च सम्बध्यते। तेनेति श्रवणाद्यदिति लभ्यते।करतलकलितामलकमिव प्रभुणा येनेदमवगतं विश्वम्। स जयति जनकसुतायाः कान्तः श्रीरघुनन्दनो देवः।।1।।नमामि व्यासदासस्य पूर्णबुद्धेः पदाम्बुजे। नतामरशिरोरत्नराजिनीराजिते सदा।।2।।अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य मे। वचोभिरमृतप्रायैः प्रीयन्तां सततं बुधाः।।3।।

Compare this verse →